Srimad Bhagavad Gita - Sri Sankaracharya's Commentary – Chapter 2 – Part -6
































Srimad
Bhagavad Gita

English Translation of
Sri Sankaracharya's Sanskrit Commentary
Swami Gambhirananda





या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥२- ६९॥

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥२- ७०॥

विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः ।
निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥२- ७१॥

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥२- ७२॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः ॥ २ ॥




भगवद्गीता/कर्मयोगः

तृतीयोऽध्याय: कर्मयोग





श्रीपरमात्मने नमः
अथ तृतीयोऽध्यायः

अर्जुन उवाच

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३- १॥

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥३- २॥

श्रीभगवानुवाच

लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३- ३॥

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥३- ४॥

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥३- ५॥

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥३- ६॥

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३- ७॥



 




Om Tat Sat
                                                        
(Continued...) 


(My humble salutations to the lotus feet of Bhagawan Sri Krishna Paramathma ji, Parama Hamsa Parivrajaka Paramacharya Sri Adi Sankara Bhagavad Pada ji and  H H Sri Swamy Gambhirananda ji for this devotional collection)


(The Blog  is reverently for all the seekers of truth, lovers of wisdom and   to share the Hindu Dharma with others on the spiritual path and also this is purely  a non-commercial blog)



भजगोविन्दम्
शङ्कराचार्यः







अग्रे वह्निः पृष्ठेभानुः
रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षस्तरुतलवासः
तदपि न मुञ्चत्याशापाशः ॥ १६॥

कुरुते गङ्गासागरगमनं
व्रतपरिपालनमथवा दानम् ।
ज्ञानविहिनः सर्वमतेन
मुक्तिं न भजति जन्मशतेन ॥ १७॥

सुर मंदिर तरु मूल निवासः
शय्या भूतल मजिनं वासः ।
सर्व परिग्रह भोग त्यागः
कस्य सुखं न करोति विरागः ॥ १८॥

योगरतो वाभोगरतोवा
सङ्गरतो वा सङ्गवीहिनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥ १९॥


भगवद् गीता किञ्चिदधीता
गङ्गा जललव कणिकापीता ।
सकृदपि येन मुरारि समर्चा
क्रियते तस्य यमेन न चर्चा ॥ २०॥



 

0 comments: